Lord Narasimha is the fourth incarnation of lord Vishnu, Known as the most intense incarnation of Vishnu. Lord Narasimha is powerful avatar who wipes out evil from his devotees life.
It is believed that Lord can bestow his devotees with many benefits like curing diseases, warding off evil, gives success and prosperity and also lead towards liberation.
ShaniDev is also an ardent devotee of Lord Narasimha and he composed a stuti for him. It is believed that who ever read/recite this stuti will not be affected by planetary position of Shani. If one recites this stuti on Saturday will not be face any trouble by Shani dev.
Here is the Sanskrit Version of this Stuti :
श्री नरसिंह स्तुति
श्री कृष्ण उवाच ।
सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् ।
अनन्यगतिकानां च प्रभुर्भक्तैकवत्सलः ॥ १ ॥
शनैश्चरस्तत्र नृसिंहदेव
स्तुतिं चकारामल चित्तवृतिः ।
प्रणम्य साष्टाङ्गमशेषलोक
किरीट नीराजित पादपद्मम् ॥ २ ॥
श्री शनिरुवाच ।
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मषराशिनाशम् ।
कल्याणकारकमशेषनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ३ ॥
सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादि वन्द्यपदया स्थिरयान्यसेवि ।
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ४ ॥
यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम् ।
योगीश्वरैरपगताऽखिल दोषसङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ५ ॥
प्रह्लाद भक्त वचसा हरिराविरास
स्तम्भे हिरण्यकशिपुं य उदारभावः ।
ऊर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ६ ॥
यो नैजभक्तमनलाम्बुधि भूधरोग्र-
शृङ्गप्रपात विषदन्ति सरीसृपेभ्यः ।
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ७ ॥
यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः ।
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ८ ॥
यद्रूपमुग्र परिमर्दन भावशालि
सञ्चिन्तनेन सकलाघ विनाशकारि ।
भूत ज्वर ग्रह समुद्भव भीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ९ ॥
यस्योत्तमं यश उमापति पद्मजन्म
शक्रादि दैवत सभासु समस्तगीतं ।
शक्त्यैव सर्वशमल प्रशमैक दक्षं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १० ॥
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः ।
उवाच ब्रह्म वृन्दस्थं शनिं तं भक्तवत्सलः ॥ ११ ॥
श्री नृसिंह उवाच ।
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् ।
यं वाञ्छसि तमेव त्वं सर्वलोक हितावहम् ॥ १२ ॥
श्री शनिरुवाच ।
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे ।
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥ १३ ॥
मत्कृतं त्वत्परं स्तोत्रम् शृण्वन्ति च पठन्ति च ।
सर्वान् कामन् पूरयेथाः तेषां त्वं लोकभावन ॥ १४ ॥
श्री नृसिंह उवाच ।
तथैवास्तु शनेऽहं वै रक्षो भुवनसंस्थितः ।
भक्त कामान् पूरयिष्ये त्वं ममैकं वचः शृणु ॥ १५ ॥
त्वत्कृतं मत्परं स्तोत्रम् यः पठेच्छृणुयाच्च यः ।
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥ १६ ॥
शनिर्नरहरिं देवं तथेति प्रत्युवाच ह ।
ततः परमसन्तुष्टो जयेति मुनयोवदन् ॥ १७ ॥
श्री कृष्ण उवाच -
इदं शनैश्चरस्याथ नृसिंह देव
संवादमेतत् स्तवनं च मानवः ।
शृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥ १८ ॥
इति श्री भविष्योत्तरपुराणे श्री शनैश्चर कृत श्री नृसिंह स्तुतिः
जय नरसिम्ह देव!
जय शनिदेव !!